Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 142, Verses 1–46

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 142, verses 1–46 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 142 · श्लोक 1-11

संस्कृत श्लोक

मुनिरुवाच । वर्तमाने तदा तस्मिन्कष्टे संभ्रान्तसंभ्रमे । उह्यमानोऽहमत्यन्तं खेदमभ्यागतोऽभवम् ॥ १ ॥ अचिन्तयं तत्स्वप्नोऽयं परस्य हृदये मम । तदतः परिनिर्वामि दुःखं पश्यामि किं मुधा ॥ २ ॥ व्याध उवाच । किंस्वित्स्यात्स्वप्न इत्येव किल संदेहशान्तये । प्रविष्टो हृदयं तस्य किं तं निर्णीतवानसि ॥ ३ ॥ किमेतद्भवतां दृष्टं हृदये क्व महार्णवः । जठरे कल्पवातः किं हृदि कल्पानलः कथम् ॥ ४ ॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । कथं हृदि जगन्नाम कथयेति यथास्थितम् ॥ ५ ॥ मुनिरुवाच । अकारणत्वात्सर्गादावेवानुत्पादतः स्फुटात् । अज्ञातौ सर्गशब्दार्थावेव न स्तो मनागपि ॥ ६ ॥ तच्चैतौ सर्वशब्दार्थौ त्वज्ञातौ परमात्मनि । यतस्तत्पदमज्ञानज्ञानात्मकमनामयम् ॥ ७ ॥ अतः सुभग सिद्धान्ते त्वत्पक्षे बोधमागते । मौर्ख्यशान्तावनाद्यन्ते पदे परमपावने ॥ ८ ॥ वच्मीदं मूढसंवित्तौ यदिद तन्न वेद्म्यहम् । वस्त्ववस्तुजमाभातं बोधमात्रमिदं ततम् ॥ ९ ॥ क्व शरीरं क्व हृदयं क्व स्वप्नः क्व जलादि च । क्व बोधो बोधविच्छित्तिः क्व जन्ममरणादि च ॥ १० ॥ स्वच्छं चिन्मात्रमस्तीह तन्नाम यदपेक्षया । स्थूलमेव खमप्यद्रिरणूनां निकटे यथा ॥ ११ ॥ स्वभावात्स चिदाकाशः किंचिच्चेतति चिन्तया । खमेव वपुराकाशं यत्तद्वेत्ति जगत्तया ॥ १२ ॥ यथा स्वप्ने पुरतया चिदेवाभाति केवला । न तु किंचित्पुराद्येवं जगच्चिन्मात्रमेव खे ॥ १३ ॥ इदं शान्तमनाभातमनन्यन्नैतदात्मनि । चिति दृशौ तमसि खे चक्रकादीव भाति ते ॥ १४ ॥ अस्माकं तु न चाभानं न चासन्न च सन्न खम् । अनाकारमनाद्यन्तमेकं चिद्व्योम केवलम् ॥ १५ ॥ भात्यकारणकं स्वप्ने शुद्धौ द्रष्टैव केवलः । तेनात्र कारणाभावो न द्रष्टास्ति न दर्शनम् ॥ १६ ॥ शुद्धं किमपि तद्भाति स्वानुभूतमपि स्फुटम् । यदवाच्यमनाद्यन्तमेकं द्वैतैक्यवर्जितम् ॥ १७ ॥ एकः कालो यथा कल्पः प्रकाशश्चोभयात्मकः । बीजं वा फलपुष्पान्तं ब्रह्म सर्वात्मकं तथा ॥ १८ ॥ यदन्यस्य महत्कुड्य तदन्यस्यामलं नभः । दृष्टमेतत्स्थिरस्वप्नसंकल्पभ्रमभूमिषु ॥ १९ ॥ स्वच्छं तदा तदात्मैकं भाति चिन्मात्र खं यथा । स्वप्ने जागृतिवत्तद्वज्जाग्रत्स्वप्नेऽपि नान्यथा ॥ २० ॥ अदृश्ये पवने यद्वददृश्यं सौरभं स्थितम् । चिन्मात्रेऽप्रतिघे तद्वज्जगदप्रतिघं स्थितम् ॥ २१ ॥ समस्तमननत्यागे योऽसि सोऽसि निरामयः । बहिरन्तरनन्तात्मा सुस्थितोऽपि निरन्तरम् ॥ २२ ॥ व्याध उवाच । भगवन्प्राक्तनं कर्म केषामिह हि विद्यते । केषां न विद्यते तद्वद्विनापि भवतः कथम् ॥ २३ ॥ मुनिरुवाच । सर्गादिषु स्वयं भान्ति ब्रह्माद्या ये स्वयंभुवः । विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी ॥ २४ ॥ तेषामस्ति न संसारो न द्वैतं न च कल्पनाः । विशुद्धज्ञानदेहास्ते सर्वात्मानः सदा स्थिताः ॥ २५ ॥ सर्गादौ प्राक्तनं कर्म विद्यते नेह कस्यचित् । सर्गादौ सर्गरूपेण ब्रह्मैवेत्थं विजृम्भते ॥ २६ ॥ यथा ब्रह्मादयो भान्ति सर्गादौ ब्रह्मरूपिणः । भान्ति जीवास्तथान्येऽपि शतशोऽथ सहस्रशः ॥ २७ ॥ किंतु ये ब्रह्मणोऽन्यत्वं बुध्यन्ते सात्त्विकोद्भवाः । अबोधा ये त्वचिदाख्यं बुद्ध्वा द्वैतमिदं स्वयम् ॥ २८ ॥ तेषामुत्तरकालं तत्कर्मभिर्जन्म दृश्यते । स्वयमेव तथा भूतैस्तैरवस्तुत्वमाश्रितम् ॥ २९ ॥ यैस्तु न ब्रह्मणोऽन्यत्वं बुद्धं बोधमहात्मनि । निरवद्यास्त एतेऽत्र ब्रह्मविष्णुहरादयः ॥ ३० ॥ सर्वात्म संविदोऽच्छत्वं ब्रह्मात्मन्येव संस्थितम् । तत्क्वचिज्जीववद्भानं स्वयमात्मनि पश्यति ॥ ३१ ॥ यत्र वेत्ति तु जीवत्वं तत्राविद्येति तिष्ठति । तत्र संसृतिनाम्नात्मा धत्ते रूपं तथास्थितम् ॥ ३२ ॥ स्वयमेव हि कालेन बुद्ध्वा स्वं रूपमात्मनः । स्वयमेव स्वरूपस्थं ब्रह्मैव भवति स्वयम् ॥ ३३ ॥ यथा द्रवत्वादम्ब्वन्तरेति चावर्ततामिव । ब्रह्म चित्त्वात्तथैतीव सर्गतामस्य सर्गकम् ॥ ३४ ॥ ब्रह्मभानमयं सर्गो न स्वप्नो न च जागरः । कस्य कान्यत्र कर्माणि कीदृशानि कियन्ति वा ॥ ३५ ॥ वस्तुतः कर्म नास्त्येव नाविद्यास्ति न सर्गधीः । स्वसंवेदनतः सर्वमसदेव प्रवर्तते ॥ ३६ ॥ ब्रह्मैव सर्गो भूतात्मा कर्म जन्मेति कल्पनाः । स्वयं कुर्वदिदं भाति विभुत्वात्कल्पितार्थभाक् ॥ ३७ ॥ न संभवति जीवस्य सर्गादौ कर्म कस्यचित् । पश्चात्स्वकर्म निर्माय भुङ्क्ते कल्पनया स चित् ॥ ३८ ॥ जलावर्तस्य को देहः कानि कर्माणि चोच्यताम् । यथाम्बुमात्रमावर्तो ब्रह्ममात्रं तथा जगत् ॥ ३९ ॥ यथा स्वप्नेषु दृष्टानां न प्राक्कर्म नृणां भवेत् । आदिसर्गेषु जीवानां तथा चिन्मात्ररूपिणाम् ॥ ४० ॥ सर्गे सर्गतया रूढे भवेत्प्राक्कर्मकल्पना । पश्चाज्जीवा भ्रमन्तीमे कर्मपाशवशीकृताः ॥ ४१ ॥ सर्ग एव न सर्गोऽयं ब्रह्मेत्थं किल तिष्ठति । यत्र तत्र क्व कर्माणि कानि वा कस्य तानि वा ॥ ४२ ॥ अपरिज्ञानमात्रं यत्स्वयं वै परमात्मनः । तदेतत्कर्म बन्धाय तत्तज्ज्ञस्योपशाम्यति ॥ ४३ ॥ यावद्यावत्परिज्ञानं पण्डितस्य प्रवर्तते । तावत्तावत्तदैवास्य कर्म शाम्यति बन्धनम् ॥ ४४ ॥ यन्नाम किल नास्त्येव तच्छान्तौ का कदर्थना । परमार्थादृते बन्धः किंचिन्नाम न विद्यते ॥ ४५ ॥ तावन्माया भवभयकरी पण्डितत्वं न यावत्तत्पाण्डित्यं पतसि न पुनर्येन संसारचक्रे । यत्नं कुर्यादविरतमतः पण्डितत्वेऽमलात्मज्ञानोदारे भयमितरथा नैव वः शान्तिमेति ॥ ४६ ॥

हिन्दी अर्थ

सारे आकाश में अलातचक्र के समान मैंने सुन्दरता के साथ भ्रमण किया । आकाश- भ्रमण से में कुछ- कुछ श्रान्त हो गया, किन्तु तत्त्वज्ञानी होने के कारण मेरी बुद्धि में तनिक भी खेद नहीं हुआ था । मैने ज्योंही उक्त दावाग्नि का विचार करने की ठानी त्योंही ओंधी आ गई । उसमें आग को फूँकने में जैसा शब्द होता है वैसी ही साँय-साँय तथा अति गंभीर मेघ के कडकने की-सी ध्वनि हो रही थी ओर उड़ रहे पत्थर, लाटी, धूलि, राख, पत्ती आदि जगत्‌ के सब पदार्थो से वह भरी थी । उक्त आँधी ने प्रबल सरसराहट ओर गड़गड़ाहट के वेग से वन में मेघो को दुगुना बना दिया था, जल-प्रवाह में बह रहे ओर लौट रहे बारह सूर्यो के साथ अलातचक्रों को मिश्रित कर दिया था । ज्वालारूप सान्ध्य मेघो की राशियों ने उस आँधी में सैकड़ों बड़ी-बड़ी अग्निनदिर्यो बहा रक्खी थीं। उस आँधी में पहाड़ों से भी दुगुने भूभाग (ढेले) ओर देवदानवों के नगर उड़ते थे उस आँधी ने आकाश में घुमाये जा रहे भूतो से पूर्वोक्त सैकड़ों अग्निनदियों के पत्तों के अम्बार को दुगुना बना दिया था | खूब जली हुई, कुछ जली हुई तथा आधी जली एक दूसरे के ऊपर आकाश से नीचे गिर रही देवांगनाओं से उसमें अग्नि की ज्वाला दुगुनी हो रही थीं । नीचे गिर रहे अंगाररूप उसके मूसलाधारों से तथा आग की चिनगारीरूपी जलकणो से वह दँतुला-सी मालूम पड़ती थी। उक्त आँधी बिना राख के अंगारों की भीषण राशिवाली अपनी अलातरूपी बिजलियों को कपा रही थी तथा धूप्ररूपी अन्धकारो से मलिन हुए ऊपर की दिशाके मुंह को आच्छादित करती थी । भूमि से, आकाश से ओर दिशाओं से वे पूर्वोक्त ज्वालारूप सान्ध्य मेघ उमड़े, जिन मेघो से देवमण्डली के साथ सातो लोक केवल ज्वालामय पर्वतपिण्ड बन गये । उक्त प्रचण्ड आँधी ने तव तो कालाग्निरुद्र के समान नाचना शुरू कर दिया । ऊपर उछलने से फले हुए अग्निकण ही उसकी कपिल रंगकी सुन्दर केशराशि थी, नीचे पादाघात से मानों उसने दीवारों को उड़ा डाला था, उससे बार-बार कर्णकटु शब्द हो रहा था, उसके सबके सब अंग भस्म से लथपथ होने से शुभ्र थे, मध्यभाग में चारों ओर गिर रही ज्वालारूपी वस्त्रराशि को मजबूती से पकड़कर वह धारण किये थी । कालरुद्र मेँ भी इन विशेषणो की योजना समानरूप से कर लेनी चाहिये