Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 182, Verses 39–53
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 182, verses 39–53 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 182 · श्लोक 39
संस्कृत श्लोक
देव्युवाच ।
एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।
भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९ ॥
इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।
मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४० ॥
देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।
ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१ ॥
अद्यायमपि संयातु भार्याया निकटं पतिः ।
भ्रातॄणां बान्धवानां च भवत्वन्योन्यसंगमः ॥ ४२ ॥
इदमन्यदथेतेषामसमञ्जसमाकुलम् ।
शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३ ॥
तप्यतां तप एतेषां पितरौ तौ वधूयुतौ ।
तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४ ॥
शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।
गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५ ॥
तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।
पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६ ॥
धूलीलवमनादृत्य तं जरत्पान्थशङ्कया ।
यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७ ॥
सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।
मां दुर्वाससमुल्लङ्घ्य गच्छस्यविहितानतिः ॥ ४८ ॥
वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।
विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९ ॥
इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।
सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययो ॥ ५० ॥
अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।
कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१ ॥
अतो वदाम्यहं तेषां नैकं नामासमञ्जसम् ।
असमञ्जसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२ ॥
चिद्व्योमसंकल्पमहापुरेऽस्मिन्नित्थं विचित्राण्यसमञ्जसानि ।
निःशून्यरूपेऽपि हि संभवन्ति दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३ ॥
हिन्दी अर्थ
इस प्रकार के उत्तम वन में भगवान शंकरजी की अर्धागिनी जगदम्बा भगवती गौरी किसी कारण
से भगवान् श्री शिवजी के मस्तक पर विराजमान शशिकला-सी मनोहर प्रसन्न चन्द्रविम्बवदना
कदम्ब सरस्वती बनकर चिरकाल तक रहीं । उनका रहना ही इन वन की अलौकिक सम्पदाओं का
कारण था