Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 20, Verses 36–48
यह पृष्ठ योगवासिष्ठ के उत्पत्ति प्रकरण, सर्ग 20, verses 36–48 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
उत्पत्ति प्रकरण · सर्ग 20 · श्लोक 36-48
संस्कृत श्लोक
चित्ताकाशघनैकत्वात्स्वेऽप्यन्येऽपि भवन्ति ते ।
एवं नामोदितेऽप्यस्य चित्ते संसारखण्डके ॥ ३६ ॥
न किंचिदप्यभ्युदितं स्थितं व्योमैव निर्मलम् ।
स्वप्ने द्रष्टरि यद्वच्चित्तद्वद्दृश्ये चिदेव सा ॥ ३७ ॥
सर्वगैकतया यस्मात्सा स्वप्ने दृष्टदर्शना ।
यथा स्वप्ने तथोदेति परलोकदृगादिभिः ॥ ३८ ॥
परलोके यथोदेति तथैवेहाभ्युदेति सा ।
तत्स्वप्नपरलोकेह लोकानामसतां सताम् ॥ ३९ ॥
न मनागपि भेदोऽस्ति वीचीनामिव वारिणि ।
अतो जातमिदं विश्वमजातत्वादनाशि च ॥ ४० ॥
स्वरूपत्वात्तु नास्त्येव यच्च भाति चिदेव सा ।
यथैव चेत्यनिर्हीणा परमव्योमरूपिणी ॥ ४१ ॥
सचेत्यापि तथैवैषा परमव्योमरूपिणी ।
तस्माच्चेत्यमतो नान्यद्वीचित्वादीव वारितः ॥ ४२ ॥
वीचित्वं च रसे नास्ति शशशृङ्गवदेव हि ।
सैव चेत्यमिवापन्ना स्वभावादच्युताप्यलम् ॥ ४३ ॥
तस्मान्नास्त्येव दृश्योऽर्थः कुतोऽतो द्रष्टृदृश्यधीः ।
निमिषेणैव जीवस्य मृतिमोहादनन्तरम् ॥ ४४ ॥
त्रिजगद्दृश्यसर्गश्रीः प्रतिभामुपगच्छति ।
यथादेशं यथाकालं यथारम्भं यथाक्रमम् ॥ ४५ ॥
यथोत्पादं यथामातृ यथापितृ यथौरसम् ।
यथावयो यथासंविद्यथास्थानं यथेहितम् ॥ ४६ ॥
यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् ।
अजात एव जातोऽहमिति चेतति चिद्वपुः ॥ ४७ ॥
देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियादि च ।
झटित्येव मृतेरन्ते वपुः पश्यति यौवने ॥ ४८ ॥
हिन्दी अर्थ
मरने के अनन्तर तुरन्त ही अपना शरीर युवावस्था में दिखने पर भी जैसे पुष्प के बाद फल का
उदय होता हे वैसे ही बाद में वासनामय क्रम उदय होता हे