Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 114, Verses 4–10
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 114, verses 4–10 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 114 · श्लोक 4-10
संस्कृत श्लोक
आदित्यव्यतिरेकेण यो भावयति राघव ।
रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः ॥ ४ ॥
कनकव्यतिरेकेण केयूरं येन भावितम् ।
केयूरमेव तत्तस्य न तस्य कनकं हि तत् ॥ ५ ॥
आदित्याव्यतिरेकेण रश्मयो येन भाविताः ।
आदित्य एव ते तस्य निर्विकल्पः स उच्यते ॥ ६ ॥
सलिलव्यतिरेकेण तरङ्गो येन भावितः ।
तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः ॥ ७ ॥
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।
अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते ॥ ८ ॥
कनकाव्यतिरेकेण केयूरं येन भाव्यते ।
कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते ॥ ९ ॥
पावकव्यतिरेकेण ज्वालाली येन भाविता ।
तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति ॥ १० ॥
हिन्दी अर्थ
होती, केवल ज्वालाबुद्धि ही रहती हे