Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 62, Verses 18–37

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 62, verses 18–37 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 62 · श्लोक 18-37

संस्कृत श्लोक

तिर्यञ्चोऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः । दृष्टानां च श्रुतानां च चेतःस्मरणमक्षतम् ॥ १८ ॥ सा बभूव लतापुष्पफलपल्लवशालिनी । वनदेवी वनोद्यानलतागृहविलासिनी ॥ १९ ॥ बीजान्तस्थाङ्कुराकाररूपयेहाधिरूढया । सापश्यदन्तःसंवित्त्या स्फुटं लवनमात्मनः ॥ २० ॥ कंचित्कालं सुषुप्तस्थं कलया जडतां घनाम् । अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थिरम् ॥ २१ ॥ षट्पदो विजहाराथ वने वनलतास्वसौ । पद्मिनीषु च फुल्लासु तरुणीष्विव वल्लभः ॥ २२ ॥ प्रियाबिम्बाधरस्वादुरसवत्कौसुमं मधु । भ्रमत्कुसुमसंघासु मुक्तावल्लीविलासिषु ॥ २३ ॥ स बभूव सरोजिन्यां व्यसनी विसनालगः । क्वचिदेव रतिं ह्येति चेतो जडमतेरपि ॥ २४ ॥ तामाजगाम नलिनीं परिलोलयितुं गजः । रम्यवस्तुक्षयायैव मूढानां जृम्भते पदम् ॥ २५ ॥ नलिनी मर्दिता सैव समं तेन स षट्पदः । गतो दन्तान्तरं व्रीहिरिव चूर्णत्वमाययौ ॥ २६ ॥ भ्रमरो वारणालोकाद्वारणालोकभावनात् । ददर्शात्मानमामोदमत्तहस्तितयोदितम् ॥ २७ ॥ शुष्कसागरगम्भीरे गजः खाते पपात ह । तमोघनघने शून्ये संसार इव जीवकः ॥ २८ ॥ बभूव वल्लभो राज्ञो महापरबलान्तकः । सदा मदबलक्षीबो घूर्णोतीव निशाचरः ॥ २९ ॥ कदाचिदसिनिस्त्रिंशच्छिन्नः सोऽस्तमुपाययौ । विवेकानिलनिर्लूनरूपो जीव इवात्मनि ॥ ३० ॥ पश्यन्गजघटाकुम्भस्थलाग्रोच्चलितानलीन् । गण्डस्थभ्रमराभ्यासाद्गजो भूयोऽप्यभूदलिः ॥ ३१ ॥ सेवमानो वनलतां पुनरायात्स पद्मिनीम् । दुस्त्यजो हि दुरभ्यासो वासनानामबोधिनः ॥ ३२ ॥ तत्र हस्तिखुराक्रान्तः पुनः संचूर्णतां ययौ । पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः ॥ ३३ ॥ कलहंसश्चिरतरं योनिष्वन्यासु संल्लुठन् । कदाचिद्बहुभिर्हंसैः संगतो विजहार ह ॥ ३४ ॥ ब्राह्महंसात्मिका संवित्सशब्दार्थवती मनाक् । तत्र पुष्टास्य तस्यान्तः प्रागण्डरसबर्हिवत् ॥ ३५ ॥ स तच्चिन्तां चरन्मृतो दृढं व्याधिघुणाहतः । तत्संवित्त्यनुसंधानाज्जातः पद्मजसारसः ॥ ३६ ॥ तत्रातिसततविवेकवतो विलासैः संबोधितो विगतलौकिकवस्तुदृष्टिः । मुक्तः स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किमु भावि विभाव्यमेतत् ॥ ३७ ॥

हिन्दी अर्थ

जन्म में समूल अनर्थो की निवृत्ति एवं निरतिशय आनन्दप्राप्ति के सम्पादित कर लेने और उससे अतिरिक्त पुरुषार्थ के शेष न रहने से वह कृतकृत्य हो गया