Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 1, Verses 1–12
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 1, verses 1–12 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 1 · श्लोक 12
संस्कृत श्लोक
श्रीराम उवाच ।
नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः ।
कथमेतदतो ब्रह्मन्संभवत्याशु जीवतः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
जीवतः कल्पनात्यागो युज्यते न त्वजीवतः ।
रूपमस्य यथातत्त्वं श्रृणु श्रवणभूषणम् ॥ २ ॥
अहंभावनमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ३ ॥
पदार्थरसमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ४ ॥
इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ५ ॥
स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।
तच्च प्रागनुभूतं च नानुभूतं च भाव्यते ॥ ६ ॥
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते ॥ ७ ॥
सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु ।
अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥ ८ ॥
निःसंकल्पप्रवाहेण चक्रं प्रस्पन्दते यथा ।
स्पन्दस्वकर्मस्वनघप्राक्संस्कारवशात्तथा ॥ ९ ॥
अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः ।
प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु ॥ १० ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥ ११ ॥
अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा ।
चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः ॥ १२ ॥
हिन्दी अर्थ
यह सम्पूर्ण दुःखों को छुड़ानेवाला विचारनामक चिन्तामणि हृदय में स्थित रहते हुए भी सब मनुष्यों
से त्यक्त हो रहा है