Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 134, Verses 30–57
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 134, verses 30–57 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 134 · श्लोक 30
संस्कृत श्लोक
सर्वतः प्रेक्षकैर्देवैः सप्राकारदिगन्तरम् ।
रुधिरैकार्णवीभूतसप्तद्वीपवसुन्धरम् ॥ ३० ॥
अत्यन्तान्तर्हिताशेषसमस्ताचलमण्डलम् ।
रक्तप्रभाभ्रसंभारवस्त्रावृतदिगङ्गनम् ॥ ३१ ॥
वृत्तालोलभुजभ्रान्तहेतिच्छन्ननभस्तलम् ।
दूरस्मृतिपथप्राप्तपुरपत्तनमण्डलम् ॥ ३२ ॥
अत्यन्तासंभवद्रूपसर्वस्थावरजंगमम् ।
संपन्नानन्तकुम्भाण्डरूपिकाद्येकसंगमम् ॥ ३३ ॥
नृत्तलोककराकारखगावलनजालकैः ।
मानसूत्रैरिव विधेरन्यद्रचयतो जगत् ॥ ३४ ॥
भूमेरार्कगतं नीतैः पिशाचैरान्त्रतन्तुभिः ।
मिमानमिव दिक्कुञ्जैस्तिर्यगूर्ध्वमधो जगत् ॥ ३५ ॥
जगदालोक्य तत्तादृगुदक्तोपप्लवाप्लुतम् ।
भूतपूर्वमहीपीठस्थितिरक्तार्णवीकृतम् ॥ ३६ ॥
द्वीपसप्तकपर्यन्ते लोकालोकाद्रिमूर्धनि ।
तदङ्गकैरनाक्रान्ते स्थिताः खिन्नतराः सुराः ॥ ३७ ॥
श्रीराम उवाच ।
ब्रह्माण्डादपि निर्गत्य यस्य तेऽवयवा गताः ।
लोकालोकाचलस्तेन ब्रह्मन्न स्थगितः कथम् ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
द्वीपसप्तकमध्येऽस्मिन्राम तस्योदरं स्थितम् ।
शिरःखुरभुजाद्यङ्गं ब्रह्माण्डात्परतः स्थितम् ॥ ३९ ॥
पार्श्वाभ्यामूरुमध्याच्च कटिपार्श्वद्वयात्तथा ।
शिरोंसद्बयमध्याभ्यां लोकालोकः स लक्ष्यते ॥ ४० ॥
तत्रोपविष्टास्ते देवा लक्ष्यन्ते श्रृङ्गमूर्धसु ।
सुशुद्धकान्तयस्तापादजला जलदा इव ॥ ४१ ॥
प्रसारिताङ्गकमधो वक्रं तत्पतितं शवम् ।
संभक्षयति भूतौघे प्रनृत्यन्तीषु मातृषु ॥ ४२ ॥
वहत्स्वसृक्प्रवाहेषु मेदोगन्धे विजृम्भिते ।
दुःखिताश्चिन्तयामासुः प्रत्येकममरा इदम् ॥ ४३ ॥
हा कष्टं क्व गता पृथ्वी क्व गता जलराशयः ।
क्व गता जनसंघाताः क्व गता धरणीधराः ॥ ४४ ॥
तादृक्चन्दनमन्दारकदम्बवनमण्डितः ।
मण्डपः पुष्पराशीनां कष्टं क्व मलयो गतः ॥ ४५ ॥
उच्चावदाता विपुला हिमवद्भूमयोऽपि ताः ।
नीताः शौक्ल्यरुषेवाशु रुधिरेणात्मपङ्कताम् ॥ ४६ ॥
क्रौञ्चद्वीपतले क्रौञ्चे योऽभूत्कल्पद्रुमो महान् ।
ब्रह्मलोकलसच्छाखः सोऽपि चूर्णत्वमागतः ॥ ४७ ॥
हा क्षीरार्णव पारिजातकमलाचन्द्रामृतानां पते हा दध्यर्णव नावनीतशिखरिप्रोद्भूतवेलावन ।
हा मध्वर्णव नालिकेरगिरिके योगेश्वरीसेवित क्वेदानीं समुपैष्यथ क्व वनिता दिग्दर्पणत्वं गताः ॥ ४८ ॥
हा कल्पद्रुमकाञ्चनामललतानिःसंधिबन्धाचल क्रौञ्चद्वीपविरिञ्चहंसनलिनीनीरन्ध्रदिग्जालक ।
यातः क्वेह कदम्बकाननदरीविश्रान्तविद्याधरीक्रीडाकोविदनागरामरगृह त्वं पुष्करद्वीपक ॥ ४९ ॥
स्वादूदोदग्रतापावलकुसुममहीपावनानां वनानां गोमेधद्वीपकल्पद्रुमकनकलतासुन्दरीणां दरीणाम् ।
शाकद्वीपाचलानाममरतरुवनैर्दंशितानां सितानां स्मृत्यैवोदेति पुण्यं सुरपदसुखदं मानवानां नवानां ॥ ५० ॥
मन्दानिलावलितपल्लववालवल्लीसंतानभासितसमस्तदिगन्तराणि ।
ध्वस्तानि तानि सकलानि वनानि कष्टमाश्वासमेष्यति कथं जनता न जाने ॥ ५१ ॥
कदा नु तानीक्षुरसाब्धितीरे वनानि खण्डाचलभूमिकासु ।
द्रक्ष्येम भूयो गुडमोदकानि तथा कुमाराण्यपि शर्करायाः ॥ ५२ ॥
कदम्बकल्पद्रुमशीतलेषु तालीतमालीसवनाचलस्य ।
कदा नु तच्चन्दनसुन्दरीणां पश्येम नृत्तं कनकालयेषु ॥ ५३ ॥
गतानि कष्टं स्मरणीयरूपतां जम्बूद्रुमस्याग्रफलानि तान्यपि ।
येषां नदीं द्वीपसमुद्रमेखला वहत्यसौ जम्बुमती रसाम्बुभिः ॥ ५४ ॥
शिलीन्ध्रनीरन्ध्रमहीध्ररन्ध्रक्षीबामरस्त्रीकृतगीतनृत्यम् ।
संस्मृत्य संस्मृत्य सुरोदतीरं प्रागब्जमुर्वीव हृदावदीर्ये ॥ ५५ ॥
पश्यासृगम्भसि नवार्णवमूर्ध्नि भासा सौवर्णपर्वतशताग्रशिखाः कचन्ति ।
संध्यारुणा उदयनास्तमयावनीनां स्तोकोदितेन्दुकलिका इव दिङ्मुखेषु ॥ ५६ ॥
तादृक्सागरवारिराशिवलया द्वीपान्तरालंकृता प्रोच्चाद्रीन्द्रनिविष्टवारिदघटानीलोत्पलानां स्थली ।
स्रोतोजङ्गलकाननोग्रनगरग्रामाग्रहाराम्बरा नो जाने तरुपल्लवाङ्कुरवती कष्टं क्व याता मही ॥ ५७ ॥
हिन्दी अर्थ
आकाशचारियों ने कहा : जो देवी महाप्रलय में संहार को प्राप्त भगवान् ब्रह्माजी की
कपिल जटाओं को अपने खट्वांग की चोटीपर बोधकर, अपने वक्षस्थल में दैत्यों के मस्तकों की माला
बनाकर, गरूड के पंखों से मुकुट बनाकर तथा समस्त प्राणियों का संहार कर पर्वतभूतलरूप इस
जगत् का पान करती हे । इस प्रकार सारे जगत् का ध्वंस करने पर भी जिसे तनिक भी दोषों से स्पर्शं
नहीं होता अतएव ज्यों कि त्यो शुद्ध चिन्मात्रस्वभाव है, हम लोगोंपर अनुग्रह करने के लिए शरीर
धारण करनेवाली वह देवी अवश्य पालन करने योग्य हम लोगों का पालन करे