Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 136, Verses 12–33
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 136, verses 12–33 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 136 · श्लोक 12
संस्कृत श्लोक
मुनिः शापमदात्तस्य महाकारतयाश्रमः ।
त्वया यन्नाशितो मृत्वा भव त्वं मशकोऽधमः ॥ १२ ॥
स तच्छापहुताशोऽथ तस्मिन्नेव तदा क्षणे ।
असुरं भस्मसाच्चक्रे जलमौर्व इवानलः ॥ १३ ॥
निराकारं निराधारमाकाशवलयोपमम् ।
चित्तं किंचिदिवाचेत्यमासीच्चेतनमासुरम् ॥ १४ ॥
तदेकत्वं ययौ साम्याद्भूताकाशेन चेतनम् ।
तदास्पदेन तत्राथ वायुना चैकतां ययौ ॥ १५ ॥
आसीच्चेतनवातात्माऽभविष्यत्प्राणिनामकः ।
रजसा पयसा व्याप्तस्तेजसा नभसाणुना ॥ १६ ॥
स पञ्चतन्मात्रमयश्चिन्मात्रलवकोऽणुकः ।
स्पन्दमाप स्वभावेन व्योम्नि वातलवो यथा ॥ १७ ॥
अथ तस्यानिलान्तस्थं चेतनं तद्व्यबुध्यत ।
कालानिलजलैर्भूमौ बीजमङ्कुरकृद्यथा ॥ १८ ॥
शुद्धशापविदन्तस्था मशकत्वविदास्य चित् ।
वेधिता मशकाङ्गानि विदित्वा मशकोऽभवत् ॥ १९ ॥
स्वेदजस्याल्पदेहस्य निःश्वासनिपतत्तनोः ।
द्वे तस्य मशकस्येह दिने भवति जीवितम् ॥ २० ॥
श्रीराम उवाच ।
प्राणिनामिह सर्वेषां योन्यन्तरज एव किम् ।
समुद्भवः संभवति किमुतान्योऽपि वा प्रभो ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
ब्रह्मादीनां तृणान्तानां द्विधा भवति संभवः ।
एको ब्रह्ममयोऽन्यस्तु भ्रान्तिजस्ताविमौ श्रृणु ॥ २२ ॥
पूर्वरूढजगद्भ्रान्तिभूततन्मात्ररञ्जनात् ।
भूतानां संभवः प्रोक्तो भ्रान्तिजो दृश्यसङ्गतः ॥ २३ ॥
अभातायां जगद्भ्रान्तौ भूतभावः स्वयं भवन् ।
यः स ब्रह्ममयः प्रोक्तः संभवो न स योनिजः ॥ २४ ॥
एवं स्थिते स मशको जगद्भ्रान्तिवशोत्थितः ।
न तु ब्रह्मोत्थितस्तस्य राम चेष्टाक्रमं श्रृणु ॥ २५ ॥
क्षमेक्षुशष्पकक्षादिपुञ्जगुञ्जेषु गुञ्जता ।
स्वायुषोऽर्धं दिनं तेन सर्वं भुक्तं विवल्गता ॥ २६ ॥
शाद्वलोदरदोलायां दोलनं बाललीलया ।
चिरमारब्धमेतेन सार्धं मशिकया स्वयम् ॥ २७ ॥
दोलाश्रमार्तस्तत्रासौ यावद्विश्राम्यति क्वचित् ।
तावद्धरिणपादाग्रगिरिपातेन चूर्णितः ॥ २८ ॥
हरिणाननसंदर्शत्यक्तप्राणतया तया ।
पूर्वक्रमगृहीताक्षः स जातो हरिणस्ततः ॥ २९ ॥
विहरन्हरिणोऽरण्ये व्याधेन धनुषा हतः ।
व्याधाननगदृष्टित्वात्संजातो व्याध एव सः ॥ ३० ॥
व्याधो वनेषु विहरन्संयातो मुनिकाननम् ।
तत्र विश्रान्तवान्सङ्गान्मुनिना प्रतिबोधितः ॥ ३१ ॥
भ्रान्तः किमिदमादीर्घदुःखाय धनुषा मृगान् ।
हंसि पासि न कस्मात्त्वं तन्त्रं जगति भङ्गुरे ॥ ३२ ॥
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चलाः ।
लोला यौवनलालना जलरयः कायः क्षणापायवान्पुत्र त्रासमुपेत्य संसृतिवशान्निर्वाणमन्विष्यतां ॥ ३३ ॥
हिन्दी अर्थ
इसी तरह देवताओं ने सूर्य को भी पहले की नाई अपने पदपर प्रतिष्ठित कर दिया, पर्वत आदि की
रचना भी पहले की तरह कर डाली यह सूचित करते हुए कहते हैं।
इस प्रकार के क्रमसे शव के क्षीण होने पर सूर्य के अपने पदपर प्रतिष्ठित करने ओर मेरु आदि
पर्वतो का उद्धार करने के कारण दिन और रात्रि के क्रम के पुनः चालू होनेपर फिर प्रजापति ने नई-नई
प्रजाओं की सृष्टि की । इस भूमि में वह सृष्टि पूर्ववत हुई