Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 159, Verses 13–70
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 159, verses 13–70 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 159 · श्लोक 13-20
संस्कृत श्लोक
तेनेत्युक्ते मया प्रोक्तं देव खिन्नोऽस्मि संसृतेः ।
मुच्येयं शीघ्रमित्युक्तं श्रुत्वोवाच ततो मम ॥ १३ ॥
विशुद्धात्मा त्वरूपोऽहमिति चैव हुताशनात् ।
वरं गृहाणेत्युक्ते स ततोऽन्यं याचितो मया ॥ १४ ॥
इन्द्र उवाच ।
तवेयं मृगयोन्यन्तश्चिरं संसरते चितिः ।
अवश्यं भवितव्योऽर्थ इति दृष्टो मया तव ॥ १५ ॥
मृगो भूत्वा महापुण्यां तां सभां समवाप्तवान् ।
यस्यां तदहतं ज्ञानं मदुक्तं बोधमेष्यति ॥ १६ ॥
तदेवं तत्र हरिणो भवार्तस्त्वं भवावनौ ।
आत्मोदन्तमिदं वन्ध्यं सकलं संस्मरिष्यसि ॥ १७ ॥
स्वप्नभ्रममिवाशेषसंकल्परचितोपमम् ।
परलोकानुभूतार्थकथायातार्थसंनिभम् ॥ १८ ॥
यदा तु मृगतोन्मुक्तः पुरुषस्त्वं भविष्यसि ।
ज्ञानाग्निदग्धदेहान्ते तदा हृत्स्थं स्फुरिष्यति ॥ १९ ॥
तेन तां त्वमविद्याख्यां भ्रान्तिं त्यक्त्वा चिरं स्थिताम् ।
भविष्यसि विनिर्वाणो गतस्पन्द इवानिलः ॥ २० ॥
इत्युक्ते तेन देवेन तदैव प्रतिभोदभूत् ।
ममायं हरिणोऽस्मीति वनेऽस्मिन्निति निश्चिता ॥ २१ ॥
ततः प्रभृति संपन्नस्तत्रैवान्तरकोणके ।
हरिणोऽहं गिरिवरे तृणदूर्वाङ्कुराशनः ॥ २२ ॥
ततः सीमान्तसामन्तमागतं मृगयार्थिनम् ।
दृष्ट्वाहमेकदा भीतः पलायनपरोऽभवम् ॥ २३ ॥
ततस्तेन समाक्रम्य गृहं नीत्वा दिनत्रयम् ।
संस्थाप्य तव लीलार्थमिहानीतो रघूद्वह ॥ २४ ॥
एष ते कथितः सर्वं आत्मोदन्तो मयानघ ।
संसारमायाप्रतिमो नानाश्चर्यरसान्वितः ॥ २५ ॥
अविद्यैवमनन्तेयं शाखाप्रसरशालिनी ।
आत्मज्ञानादृते नैव केनचिन्नाम शाम्यति ॥ २६ ॥
श्रीवाल्मीकिरुवाच ।
यदा विपश्चिदित्युक्त्वा तत्र तूष्णीं स्थितः क्षणात् ।
समवोचत्तदा रामस्तमनिन्द्यमतिस्त्विदम् ॥ २७ ॥
श्रीराम उवाच ।
एवं पश्यत्यसंकल्पो योऽन्यसंकल्प आत्मनि ।
मृगश्चेद्दृश्यतां यातः कथं सर्गे वद प्रभो ॥ २८ ॥
विपश्चिदुवाच ।
महाशवं यत्पतितं यस्मिञ्जगति भूतले ।
तां भुवं पूर्वमिन्द्रेण यज्ञगर्वेण गच्छता ॥ २९ ॥
पादेनाभिहतो व्योम्नि दुर्वासा ध्यानसंस्थितः ।
गतासुरित्यविज्ञानात्तेनासौ कुपितोऽशपत् ॥ ३० ॥
शक्र शक्रावनितलं ब्रह्माण्डप्रतिमं शवम् ।
अचिरेण महाघोरं तव चूर्णीकरिष्यति ॥ ३१ ॥
मामिमं शवबुद्ध्या त्वं यदतिक्रान्तवानतः ।
शापेन ममतां पृथ्वीं शीघ्रमासादयिष्यसि ॥ ३२ ॥
मृगार्थं तेन मुनिना तथा देवेति सद्यथा ।
तत्तया कथयाऽऽयातं सदैव विषयं दृशाम् ॥ ३३ ॥
वस्तुतस्तु न चैकं सन्न द्वितीयं न चाप्यसत् ।
सा तथा प्रतिभोदेति किं सत्किमथवाप्यसत् ॥ ३४ ॥
अन्यच्च राघवे मां तां युक्तिं त्वमपरां श्रृणु ।
एतस्मिन्नयसंदर्भे सुस्फुटप्रतिपत्तये ॥ ३५ ॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
ब्रह्म तस्मिन्महाभाग किं न संभवतीह हि ॥ ३६ ॥
संकल्पजातं नान्योन्यं मिलतीत्युपपद्यते ।
संकल्पजातमन्योन्यं मिलतीत्युपपद्यते ॥ ३७ ॥
संकल्पजातमन्योन्यं मिलतीत्यवगम्यते ।
सर्वात्मनि हि यत्रैव च्छाया तत्रैव चातपः ॥ ३८ ॥
न संभवति चेत्तत्तत्कथं सर्वात्मतामियात् ।
कस्मात्संकल्पनगरं न मिथः श्लिष्यतीति सत् ॥ ३९ ॥
मिथश्च श्लिष्यतीत्येवमपि सत्सर्वरूपिणि ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥ ४० ॥
सर्वत्र सर्वथा सर्वं सर्वदा सर्वरूपिणि ।
अहो नु विषमा माया मनोमोहविधायिनी ॥ ४१ ॥
विधयः प्रतिषेधाश्च यदेकत्र स्थितिं गताः ।
ईदृशी ब्रह्मसत्तैषा यदेवात्मानमात्मना ॥ ४२ ॥
तया अनादिः सादिश्चेत्यविद्येत्यनुभूयते ।
न ज्ञप्तिमात्रकचनं यदि स्याद्भुवनत्रयम् ॥ ४३ ॥
तन्महाकल्पनष्टानां सृष्टिः स्यात्कथमञ्जसा ।
कथमग्नेः कथं वायोः सत्ता भूमेः कथं भवेत् ॥ ४४ ॥
तस्मात्स्वभावकचनमात्रान्नान्यदृते जगत् ।
शास्त्राण्यनुभवो लोका आमहाकल्पवादिनाम् ॥ ४५ ॥
येषां प्रमाणं नो सर्वं प्रशस्तैस्तैरलं सताम् ।
ज्ञप्तिदृष्ट्यानया सर्वं प्रमाणीभवति क्षणात् ॥ ४६ ॥
नान्यया तनु तेनैवमेव सार विदुर्बुधाः ।
शुद्धा ज्ञप्तिर्ब्रह्मसत्ता त्वविद्यास्मीति चेतनात् ॥ ४७ ॥
स्फुरतीयं जगद्रूपा वातश्रीः स्पन्दनादिव ।
न कश्चनेह म्रियते जायते न च कश्चन ॥ ४८ ॥
मृतोऽहमिदमस्तीति प्रतिभैव चिदात्मिका ।
मृतिरत्यन्तनाशश्चेत्तत्सा निद्रा सुखोपमा ॥ ४९ ॥
पुनर्दृश्योपलम्भश्चेन्ननु जीवितमेव तत् ।
तस्मान्नेहास्ति मरणं तन्नैवेहास्ति जीवितम् ॥ ५० ॥
कस्मिंश्चिन्मात्रकचने द्वयं वाप्यस्ति नैव वा ।
चेतितं द्वयमप्यस्ति नास्ति द्वयमचेतितम् ॥ ५१ ॥
चेतितं चैकमेवास्ति स्वस्त्यनन्तमतश्चितः ।
चिन्मात्रव्यतिरेकेण किं नाम वद जीवनम् ॥ ५२ ॥
अदुःखमक्षयत्वात्तदतो दुःखं क्व कस्यचित् ।
वाच्यं सवाचकं सर्वं यत्र चिद्व्योममात्रकम् ॥ ५३ ॥
तदन्यत्तदनन्यच्च के ते तत्रैकताद्विते ।
आवर्तादि यथा तोये शरीरादि तथा परे ॥ ५४ ॥
तत्सत्तासंनिवेशात्म कारणानन्यखात्म च ।
चिद्भानमात्रमव्यग्रं खमेवाप्रतिघं जगत् ॥ ५५ ॥
आश्चर्यं सुघनं व्यग्रं द्रव्यं सप्रतिघं स्थितम् ।
तथेते भूतिभूर्नास्ति वर्तमानानुभूतिभूः ॥ ५६ ॥
तत्र भ्रान्त्या पिशाचोऽयं भाति खात्मेति बुध्यताम् ।
यथैतत्खं तथैतत्खमेतत्खमिति खं स्थितम् ॥ ५७ ॥
तथेतो भूरितो भूतमितोऽन्यदिति खं परम् ।
यैव चिद्भा जगत्सैव नैकतात्र न च द्विता ॥ ५८ ॥
न च प्रतिघता काचिन्न चाप्रतिघरूपता ।
सर्वमप्रतिघं दृश्यं यथा भूतार्थदर्शिनः ॥ ५९ ॥
तज्ज्ञतातज्ज्ञते चेह न सती नाप्यसत्स्थिती ।
सत्ये सदसती चैकं काष्ठमौनमतोऽखिलम् ॥ ६० ॥
यद्दृश्यं ब्रह्मतानन्तं तदेव परमं पदम् ।
इद सर्वं परं ब्रह्ममात्रमित्येव संस्थितम् ॥ ६१ ॥
एवं नामैष चिद्धातुः कचत्येवं यदात्मनि ।
यस्येदं कचनं व्योम्नो रूपमप्रतिघं जगत् ॥ ६२ ॥
सर्गाद्या मृतजीवानां सर्वत्रैवाङ्गुलेङ्गुले ।
असंख्याः सन्त्यसंख्यानामदृश्याप्रतिघामिथः ॥ ६३ ॥
अन्योन्यं सिद्धलोकास्ते स्वं यत्र प्राप्य संगताः ।
परस्परं न पश्यन्ति मिथः प्रोता अपि स्थिताः ॥ ६४ ॥
भवत्याकाश एवैषा दृश्यश्रीर्गगनात्मिका ।
अनन्यदृष्टा चिद्रूपा स्वप्नवत्स्वात्मद्रष्टृका ॥ ६५ ॥
एषा हि संपरिज्ञाता तिष्ठत्यपि यथास्थितम् ।
भामात्ररूपनिर्वाणा निशान्ताऽप्रतिभाकृतिः ॥ ६६ ॥
शान्ताशेषविशेषात्म यथास्थितमवस्थितम् ।
सदसद्वा जगज्जालं परिज्ञानेन शाम्यति ॥ ६७ ॥
यथाब्धिजलबिन्दूनां क्षणविश्लेषसंगमम् ।
चिदणूनां तथा ब्रह्म वारिधौ स्फुरतां मिथः ॥ ६८ ॥
स्वप्नवद्भाति सर्गश्रीः सर्गादौ चिन्नभोमयी ।
अतः सर्वमिदं ब्रह्म शान्तमित्युपपद्यते ॥ ६९ ॥
दृष्टान्यनन्तविभवानि मया जगन्ति भुक्तानि कार्यपरिणामविजृम्भितानि ।
भ्रान्ता दिशो दश बहूनि युगानि यावज्ज्ञानादृते क्षयमुपैति न दृश्यदोषः ॥ ७० ॥
हिन्दी अर्थ
सैकड़ों मेरु पर्वतं के से आकार का उसका शरीर महाशव
सा हुआ । दूसरी पृथ्वी के सदृश विशालकाय वह आकाश से वज्र की भोति नीचे गिरा । ब्रह्मा के
किसी जाग्रत भरमरूप किसी आकाश में केशों के गोले के समान प्रतीत हुआ, जो गिरने के पहले पृथिवी
में उतरने की सीढ़ी के समान और गिरने के बाद पृथिवी के विशाल ढकने के समान स्थित था । उस
शव ने अपने आकार से सारी पृथिवी ओर पर्वतो को आच्छन्न कर दिया हे श्रेष्ठ विपश्चित्, यह मैंने
उस महाशव का तुमसे वर्णन किया जिस भूतलरूप जगत् में वह शव गिरा वही हम लोगों की
स्वप्ननगरी के समान जगत् के रूप में स्फुरित हुआ । उसी महाशव का भक्षण कर पहले तिनके की
तरह सूखी हुई भगवती चंडिका देवी भरी पूरी होकर बड़ी तोंदवाली तथा रुधिर और अँतड़ियों से
पूर्ण होकर लाल हो गई । इस शव के ही हिमालय पर्वत के समान प्रचुर मेद से पूर्ण हुई पृथिवी मेदिनी
नाम से प्रख्यात हो गई । तभी यह महामेदा मिट्टी बन गया फिर समय पाकर यह पृथिवी उत्पन्न होकर
मिट्टी की हो गई । महाशव के गिरने से पहले के वन आदि विनष्ट हो चुके थे, अतः फिर से वन उगे,
फिर से नगरों के साथ गाँव बसाये गये । पहले चूर-चूर हुए पर्वत फिर से जैसे पहले थे उसी रूपरेखा
में पाताल से बाहर निकले । तदुपरान्त लोगों का कारोबार चलने लगा