Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 160, Verses 6–12
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 160, verses 6–12 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 160 · श्लोक 6
संस्कृत श्लोक
क्रमान्मुनिरुवाचाथ तां यथाप्रस्तुतां कथाम् ।
शशीवामृतमाह्लादमुद्गिरन्मुखदीप्तिभिः ॥ ६ ॥
राजन्नेयमविद्येयमसत्येव सती स्थिता ।
नेदृशेनापि यत्नेन निर्णीतैषा विपश्चिता ॥ ७ ॥
अविद्यैवमविज्ञाता चिरानन्तावभासते ।
परिज्ञाता तु नास्त्येव मृगतृष्णानदी यथा ॥ ८ ॥
मन्त्रिणस्ते महाबुद्धे भासस्यास्य विपश्चितः ।
इतिवृत्तं त्वमित्यस्य स्वयमेव हि दृष्टवान् ॥ ९ ॥
सदृशोऽयमितस्त्वाभिः कथाभिर्ज्ञाततत्पदः ।
अविद्यायां प्रशान्तायां जीवन्मुक्तो भविष्यति ॥ १० ॥
अविद्येति धृता संविद्ब्रह्मणात्मनि सत्तया ।
तद्भ्रमेणासदप्यस्याः सद्रूपमिव लक्ष्यते ॥ ११ ॥
यदा ब्रह्मात्मिकैवेयमविद्या नेतरात्मिका ।
तदास्त्येषाऽपरिज्ञाता परिज्ञाता न भिद्यते ॥ १२ ॥
हिन्दी अर्थ
हे महाराज दशरथ, कहींपर परस्पर मिले
हुए (एकत्र हुए) छत्रमय अंगवाले प्राणी भासते थे, उनमें चेतना थी, वे मन्द मन्द गति से चलते थे ओर
दर्शकों के हृदयो को हरते थे