Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 180, Verses 21–41

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 180, verses 21–41 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 180 · श्लोक 21,22

संस्कृत श्लोक

इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया । यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१ ॥ मथुरायामहं जातो वृद्धिं यातः पितुगृहे । बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२ ॥ समग्रसुखसंभारकोशो भवति भूमिपः । इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३ ॥ अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः । स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४ ॥ इत्यर्थेन समागत्य देशमित्थमहं स्थितः । अत्र द्वादश वर्षाणि समतीतानि मानद ॥ २५ ॥ तदकारणमित्र त्वं गच्छेष्टं देशमाशुगः । अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६ ॥ इति तेनाऽहमुक्तः संस्तमित्थं प्रोक्तवाञ्छृणु । आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७ ॥ साधो यावत्त्वया प्राप्तो न नामाभिमतो वरः । त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८ ॥ मयेत्युक्ते स पाषाणमौनवानभवच्छमी । निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९ ॥ तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् । षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३० ॥ अर्कबिम्बाद्विनिष्कम्य तत्प्रदेशान्तरे स्थितम् । एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१ ॥ स तेन पूज्यते यावन्मनसा कर्मणा मया । उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२ ॥ शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस । तपः संहर संहारि गृहाणाभिमतं वरम् ॥ ३३ ॥ सप्ताब्धिद्वीपवलया पालयिष्यसि मेदिनीम् । सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४ ॥ एवं समीहितं दत्त्वा स द्वितीयो दिवाकरः । गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५ ॥ तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः । श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६ ॥ संप्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् । तपस्त्यक्त्वा यथाप्राप्तं व्यवहारं समाचर ॥ ३७ ॥ एवमङ्गीकृतवतः पादौ तस्य मया ततः । मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८ ॥ स्नातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् । फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९ ॥ तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः । समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४० ॥ सप्तद्वीपसमुद्रमुद्रितदिश भोक्तुं समग्रां महीं विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः । संप्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेवसदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१ ॥

हिन्दी अर्थ

अनेक दीप प्रभाओ के एकवद्‌ भान की तरह एक ही मायाशक्ति का अनेकधा भान हो सकता है, यह कहते है । जैसे बहुत दीपकोवाले घर में बहुत-सी छायाएँ (कान्तियाँ) एकवत्‌ प्रतीत होती हैं वैसे ही सर्वशक्ति परमात्मा की एक शक्ति (माया) भी अनेकरूप प्रतीत होती हे । आकाश में भ्रान्ति से वृक्ष-समूह के स्फुरण की भाँति इस ब्रह्मरूप समुद्र मेँ जो सीकर-स्फुरण है वही यह सृष्टि है । अन्तर केवल इतना ही है कि आकाश में जो वृक्ष-समूह है वह आकाशधर्म शून्यता से अनुविद्धरूप से स्फुरण न होने के कारण अत्यन्त भिन्नरूप है और ब्रह्म समुद्र मेँ यह स्फुरित हो रहा सर्गविन्दु किंचिन्मात्र भी भिन्न नहीं हे