Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 200, Verses 42–66
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 200, verses 42–66 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 200 · श्लोक 42
संस्कृत श्लोक
शत्रुघ्नो लक्ष्मणश्चैव तथान्ये तत्समाश्च ये ।
निकटस्थास्तथैवाशु ते प्रणेमुर्मुनीश्वरम् ॥ ४२ ॥
दूरप्रणामैर्दूरस्थाः पुष्पाञ्जलिसमीरणैः ।
राजानो राजपुत्राश्च प्रणेमुर्मुनयश्च तम् ॥ ४३ ॥
अस्मिन्नवसरे तत्र कुसुमाञ्जलिवर्षणैः ।
हिमैरिव हिमाद्रीन्द्रो मुनिरन्तर्धिमाययौ ॥ ४४ ॥
अथ शान्ते सभाक्षोमे प्रणामनिवहे तथा ।
संस्मरञ्छासनं किंचित्सत्ये कृष्णसिताशयम् ॥ ४५ ॥
मुनिः कुसुमराशिं तं बाहुभ्यां प्रविचाल्य सः ।
मुखं संदर्शयामास सिताभ्रादिव चन्द्रमाः ॥ ४६ ॥
शान्ते सिद्धवचोराशौ तथा दुन्दुभिनिःस्वने ।
नभःकुसुमवर्षे च सभाकलकले तथा ॥ ४७ ॥
प्रणामानन्तरं तस्मिन्रामाद्यैः स्वसभाजने ।
शान्तवात इवाम्भोदे जने सौम्यत्वमागते ॥ ४८ ॥
आकर्णयन्साधुवादं विश्वामित्रं मृदुस्वनम् ।
उवाचेदमनिन्द्यात्मा वसिष्ठो मुनिनायकः ॥ ४९ ॥
मुने गाधिकुलाम्भोज वामदेव निमे क्रतो ।
भरद्वाज पुलस्त्यात्रे घृष्टे नारद शाण्डिले ॥ ५० ॥
हे भासभृगुभारण्डवत्सवात्स्यायनादयः ।
मुनयस्तुच्छमेतन्नु भवद्भिर्मद्वचः श्रुतम् ॥ ५१ ॥
यदत्रानुचितं किंचित्तदनुग्रहतोऽधुना ।
दुरर्थं विगतार्थं वा भवन्तः कथयन्तु मे ॥ ५२ ॥
सभ्या ऊचुः ।
वसिष्ठवचने ब्रह्मन्परमार्थैकशालिनि ।
दुरर्थो भवतीत्यद्य नवैव खलु गीः श्रुता ॥ ५३ ॥
यत्संभृतमनन्तेन जन्मदोषेण नो मलम् ।
तत्प्रमृष्टं त्वयेहाद्य हेम्नामिव हविर्भुजा ॥ ५४ ॥
ब्रह्मबृंहितया वाचा विभो विकसिता वयम् ।
कुमुदानीन्दुदीप्त्येव परमामृतशीतया ॥ ५५ ॥
सर्वसत्त्वमहाबोधदायिनं मुनिनायकम् ।
भवन्तमेकान्तगुरुं प्रणमाम इमे वयम् ॥ ५६ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा मुनिनाथाय नमस्त इति ते पुनः ।
वदन्त एकशब्देन तारेणाब्दरवौजसा ॥ ५७ ॥
अर्वाक्पुष्पाञ्जलिव्रातैः खात्सिद्धैः सममुज्झितैः ।
वसिष्ठं पूरयामासुर्हिमैरब्दा इवाचलम् ॥ ५८ ॥
इत्थं दशरथं भूपं शशंसुश्चाथ राघवम् ।
माधवं चतुरात्मानं राघवोदन्तकोविदाः ॥ ५९ ॥
सिद्धा ऊचुः ।
नमाम चतुरात्मानं नारायणमिवापरम् ।
रामं सभ्रातरं जीवन्मुक्तं राजकुमारकम् ॥ ६० ॥
तथैव व्योमगाः सिद्धाः शशंसुस्तं जनं पुनः ।
तथैव सभ्यास्तांस्तत्र समानर्चुर्घनस्तवम् ॥ ६१ ॥
मुनिसेनाधिपं भूपं भास्करं भूरितेजसम् ।
वसिष्ठं सुप्रवादाढ्यं विश्वामित्रं तपोनिधिम् ॥ ६२ ॥
एषामेव प्रभावेन ज्ञानयुक्तिं परामिमाम् ।
श्रुतवन्तो वयं सर्वे भ्रान्तिसंरम्भनाशिनीम् ॥ ६३ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा गगनात्सिद्धा भूयः पुष्पाणि चिक्षिपुः ।
सभायामथ तूष्णीं च तस्थुर्मुदितचेतसः ॥ ६४ ॥
नभश्चरा धरणिचरा मुनीश्वरा महर्षयो विबुधगणा द्विजा नृपाः ।
अपूजयन्निति जनमोजसैव ते गिरोच्चया सह कुसुमार्घ्यदानया ॥ ६६ ॥
हिन्दी अर्थ
श्रीवाल्मीकिजी ने कहा : मुनिश्रेष्ठ श्रीवसिष्ठजी यह अन्त में कहकर श्रीरामचन्द्रजी के निर्मल
बुद्धि से ब्रह्मपद को प्राप्त होने अतएव सकल एषणाओं से विहीन होने पर और सभा में स्थित सब
लोगों के समाधिस्थ-से होनेपर उस सभा में स्वयं ब्रह्मरसायन के आसवाद में तत्पर होकर वैसे ही
चुप हो गये जैसे कि भ्रमर कमल-राशि में गुंजनकर रस पीने को प्रवृत्त होता है