Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 203, Verses 12–52

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 203, verses 12–52 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 203 · श्लोक 12

संस्कृत श्लोक

विनेदुर्मेदुरोद्दाममुखमारुतपूरिताः । मध्याह्नशङ्खाः कल्पान्तवातपूर्णा इवार्णवाः ॥ १२ ॥ प्रालेयश्रीरिवाब्जेषु घर्मश्रीर्वदनेष्विव । चकार पदमाकीर्णशुद्धमुक्ताफलोपमा ॥ १३ ॥ गृहभित्तिपरावृत्ता सत्त्वसंरम्भमांसला । शब्दश्रीः पूरयामास कर्णमर्ण इवार्णवम् ॥ १४ ॥ पुरन्ध्रीभिर्निदाघौघशान्तये समुदीरिता । उल्ललास नवा पाण्डुकर्पूरजलदावलिः ॥ १५ ॥ स राजा सहसामन्तः सभूपः सपरिच्छदः । सवसिष्ठः समुत्तस्थौ सहरामः स संसदः ॥ १६ ॥ राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा । अन्योन्यं पूजिता जग्मुर्मुदिताः स्वं निवेशनम् ॥ १७ ॥ अन्तःपुरगृहाग्रेषु तालवृन्तानिलाहृतैः । कर्पूरधूलिभिरभून्नवैवाम्बुदमालिका ॥ १८ ॥ अथ मध्याह्नतूर्याणां रवे स्फूर्जति भित्तिषु । उवाच वचनं वाक्यकोविदो मुनिनायकः ॥ १९ ॥ सर्वमेव श्रुतं श्राव्यं ज्ञेयं ज्ञातमशेषतः । त्वया राघव भो नास्ति ज्ञातव्यमपरं वरम् ॥ २० ॥ यथा मयोपदिष्टोऽसि यथा पश्यसि शास्त्रतः । यथानुभवसि श्रेष्ठमेकवाक्यं तथा कुरु ॥ २१ ॥ उत्तिष्ठ तावत्कार्याय वयं स्नातुं महामते । मध्याह्नसमयोऽस्माकमयमङ्गातिवर्तते ॥ २२ ॥ अपरं यत्त्वया भद्र स्वाकाङ्क्षाविनिवृत्तये । प्रष्टव्यं तच्छुभं प्रातः प्रष्टव्यं भवता पुनः ॥ २३ ॥ श्रीवाल्मीकिरुवाच । इत्युक्ते मुनिनाथेन राजा दशरथः स्वयम् । पूजयामास तान्सभ्यान्सर्वान्साधून्सपर्यया ॥ २४ ॥ सह रामेण धर्मात्मा मुनिविप्रान्नृपांश्च सः । वसिष्ठाद्युपदिष्टेन क्रमेण व्योमगांस्तथा ॥ २५ ॥ मणिमुक्तागणार्थेन दिव्येन कुसुमेन च । मणिरत्नप्रदानेन मुक्ताहारार्पणेन च ॥ २६ ॥ प्रणयेन प्रणामेन प्रदानेनार्थशालिना । वस्त्रासनान्नपानेन कनकेन तथा भुवा ॥ २७ ॥ धूपेन गन्धमाल्याभ्यां यथोदितमनिन्दितः । पूर्वान्संपूजयामास सर्वानेव महीपतिः ॥ २८ ॥ अथोत्तस्थौ सभामध्यात्सभया सह मानदः । सवसिष्ठादिदेवर्षिः सायमिन्दुरिवाम्बरात् ॥ २९ ॥ ससभोत्थानसमयः ससंरम्भो व्यराजत । जानुदघ्नसुरोन्मुक्तपुष्पसंजातकर्दमः ॥ ३० ॥ संघट्टाघट्टकेयूररत्नचूर्णारुणावनिः । छिन्नहारस्फुरन्मुक्ताताराजितनिशाम्बरः ॥ ३१ ॥ देवर्षिमुनिविप्रेन्द्रपार्थिवस्पन्दसंकुलः । व्यग्रभृत्याङ्गनाहस्तकेशचञ्चलचामरः ॥ ३२ ॥ ज्ञानप्रमेयीकरणस्पन्दमानो न दारुणः । शिरःकरत्रिनयनजिह्वेष्वेव विराजितः ॥ ३३ ॥ परस्परमथापृच्छ्य पूजिताः पेशलोक्तयः । राजानो मुनयश्चैव सर्वे दशरथादयः ॥ ३४ ॥ स्वाश्रमान्साधवो जग्मुस्तुष्टस्निग्धाशया मिथः । लोकसप्तकवास्तव्या देवाः शक्रपुरादिव ॥ ३५ ॥ अन्योन्यं प्रणयात्सर्वे पूजयित्वा यथाक्रमम् । तद्विसृष्टाः स्वमागत्य गृहं चक्रुर्दिनक्रियाम् ॥ ३६ ॥ अथ सर्वे वसिष्ठाद्यास्तथा दशरथादयः । चक्रुर्दिवसकार्याणि राजानो मुनयस्तथा ॥ ३७ ॥ यथाप्राप्तं क्रियां तेषु कृतवत्स्वथ दैवसीम् । क्रमेणाकाशपथिको भास्करोऽस्तमुपाययौ ॥ ३८ ॥ तयैव कथया तेषां रामस्य च महामतेः । प्रबोधवशतः शीघ्रं सा व्यतीयाय शर्वरी ॥ ३९ ॥ उत्सारिततमःपांसुताराकुसुमनिर्भरम् । भुवनं भवनीकुर्वन्नाजगाम दिवाकरः ॥ ४० ॥ करवीरकुसुम्भाभैः करैररुणयन् दिशः । विवेश गगनाम्भोधिमथ बालदिवाकरः ॥ ४१ ॥ राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा । वसिष्ठाद्याः समाजग्मुः पुनर्दाशरथीं सभाम् ॥ ४२ ॥ यथाक्रमं यथासंस्थं यथादेशं यथासनम् । सा विवेश सभा तत्र धिष्ण्यश्रीरम्बरे यथा ॥ ४३ ॥ ततो दशरथाद्येषु सुमन्त्रादिषु चाप्यलम् । वसिष्ठं संप्रशंसत्सु मुनिमासनसंस्थितम् ॥ ४४ ॥ वसिष्ठस्य पितुश्चाग्रे राजीवदललोचनः । उवाच राघवो धीमान्मृदुवर्णमिदं वचः ॥ ४५ ॥ श्रीराम उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानमहार्णव । सर्वसंदेहपरशो परशोकभयापह ॥ ४६ ॥ श्रोतव्यमपरं किं मे विद्यते वेद्यमेव वा । श्रोतव्यं विद्यते यद्वा तत्सर्वं वक्तुमर्हसि ॥ ४७ ॥ श्रीवसिष्ठ उवाच । राम संप्राप्तबुद्धिस्त्वं श्रोतव्यं ते न विद्यते । कृतकृत्या तवैषा धीः प्राप्तप्राप्या स्थितात्मनि ॥ ४८ ॥ त्वमेव तावत्कथय प्रविचार्य धियात्मना । कीदृशोऽद्य भवानन्तः किं शेषं श्राव्यमस्ति ते ॥ ४९ ॥ श्रीराम उवाच । ब्रह्मन्नेवमहं मन्ये यथाहं कृतकृत्यधीः । निर्वाणोस्मि प्रशान्तोस्मि नाकाङ्क्षा मम विद्यते ॥ ५० ॥ वक्तव्यमुक्तं भवता ज्ञातं ज्ञेयं मयाखिलम् । तव विश्रान्तिमायातु कृतकृत्या सरस्वती ॥ ५१ ॥ अधिगतमधिगम्यं ज्ञेयमाप्तु मयेदं विगतमखिलमैक्यं द्वैतमस्तं प्रयातम् । परिगलितमशेषं दृश्यभेदावभानं ननु निपुणमपास्ताशेषसंसारितास्था ॥ ५२ ॥

हिन्दी अर्थ

मेरी मति पूर्णतया प्रसन्न हो चुकी है, मेरा समस्त शोक निवृत्त हो गया है, मैं अलौकिक शान्ति से (सकार्य मूलअज्ञान के नाश से) अमलाशयरूप आत्मा में आनन्द को प्राप्त हो गया ह । भलीभाँति परीक्षा करके देखे गये आत्मा से ही स्वतः सिद्ध निर्मलता को मैं प्राप्त हो चुका हू अतएव मुझको नमस्कार है