Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 1, Verses 19–43
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 1, verses 19–43 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 1 · श्लोक 19
संस्कृत श्लोक
आययुर्भयवित्रस्ता बाला धात्रीकुचान्तरम् ।
सारवं प्रावृषीवाब्दाः प्रोन्नतं श्रृङ्गकोटरम् ॥ १९ ॥
उत्तस्थुरवतंसेभ्यो भूभृतां भ्रमरस्रजः ।
ईषत्करालवाहाभ्यः सरिद्भ्योऽम्बुकणा इव ॥ २० ॥
एवं प्रक्षुभिते तस्मिन्गृहे दाशरथे तदा ।
प्राप्ते वासरवृद्धत्वे शान्तशङ्खस्वने शनैः ॥ २१ ॥
संहरन्प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् ।
उवाच मुनिशार्दूलः सभामध्ये रघूद्वहम् ॥ २२ ॥
राघवानघ वाग्जालं मयैतत्प्रविसारितम् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय ॥ २३ ॥
कच्चिद्गृहीतो भवता मद्गिरामर्थ ईदृशः ।
त्यक्त्वा दुर्बोधमक्षीणो हंसेनेवाम्भसः पयः ॥ २४ ॥
विचार्यैतदशेषेण स्वधियैवं पुनःपुनः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना ॥ २५ ॥
अनयैव धिया राम विहरन्नैव बध्यसे ।
अन्यथाधः पतस्याशु विन्ध्यखाते यथा गजः ॥ २६ ॥
सुगृहीतं धिया राम मद्वचो न करोषि चेत् ।
तत्पतस्यवटे त्यक्तदीपो वान्धो निशास्विव ॥ २७ ॥
असङ्गेन यथाप्राप्तो व्यवहारोऽस्य सिद्धये ।
इत्येव शास्त्रसिद्धान्तमादायोदारवान्भव ॥ २८ ॥
हे सभ्या हे महाराज रामलक्ष्मणभूमिपाः ।
सर्व एव भवन्तोऽद्य तावद्व्यापारमाह्निकम् ॥ २९ ॥
कुर्वन्त्वयं हि दिवसः प्रायः परिणताकृतिः ।
शेषं विचारयिष्यामो विचार्यं प्रातरागताः ॥ ३० ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ता मुनिना तेन सा सर्वैव तदा सभा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी ॥ ३१ ॥
राजानः स्तुतराजानः कृतराघववन्दनाः ।
परिष्टुते वसिष्ठे ते जग्मुरात्मनिवेशनम् ॥ ३२ ॥
विश्वामित्रेण सहितो वसिष्ठो गन्तुमाश्रमम् ।
उत्तस्थावासनाच्छ्रीमान्नमस्कृतनभश्चरः ॥ ३३ ॥
दशरथप्रभृतयो राजानो मुनयस्तथा ।
यथानुरूपं वक्तारमनुगम्य मुनिं चिरम् ॥ ३४ ॥
आपृच्छ्य केचिद्गगनं ययुः केचिद्वनान्तरम् ।
केचिद्राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव ॥ ३५ ॥
वसिष्ठपादयोस्त्यक्त्वा पुष्पाञ्जलिमनाविलम् ।
दारैरनुगतो राजा प्रविवेश गृहान्तरम् ॥ ३६ ॥
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः ।
अभ्यर्च्य चरणौ भक्त्या त्वाजग्मुर्नृपमन्दिरम् ॥ ३७ ॥
सदनानि समासाद्य श्रोतारः सर्व एव ते ।
सस्नुरानर्चुरभ्येयुर्देवान्विप्रान्पितृंस्तथा ॥ ३८ ॥
यथाक्रमं स्वभृत्यान्तैर्विप्राद्यैश्च परिच्छदैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोदितम् ॥ ३९ ॥
अस्तं गते दिनकरे समं दिवसकर्मभिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः ॥ ४० ॥
स्थित्वा तल्पेषु कौशेयशयनेष्वासनेषु च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः ॥ ४१ ॥
संसारोत्तरणोपायं वसिष्ठवदनेरितम् ।
यथावदेकाग्रधियश्चिन्तयामासुरादृताः ॥ ४२ ॥
ततः प्रहरमात्रेण निद्रामामुद्रिताननाः ।
उत्स्वप्नसुन्दरीमीयुः पद्मा इव दिनार्थिनः ॥ ४३ ॥
हिन्दी अर्थ
अब वन्ध और मोक्ष का रहस्य दिखलाते हुए वासनाओं के उच्छेद में उपाय क्रम को दशति है।
वासनाओं से बद्ध पुरुष बद्ध है ओर वासनाओं का क्षय मोक्ष हे । आप वासनाओं का त्याग करके
मोक्षार्थिता का भी त्याग कीजिये