Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 86, Verses 3–12
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 86, verses 3–12 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 86 · श्लोक 3-12
संस्कृत श्लोक
शिखिध्वज उवाच ।
अत्युदारं महार्थं च वक्षि त्वं वदतां वर ।
अनुभूतिमुपारूढं गूढं च परमार्थवत् ॥ ३ ॥
त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर ।
पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम् ॥ ४ ॥
तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे ।
ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव ॥ ५ ॥
तेन पद्मजपुत्रेण मुनिना नारदेन तत् ।
क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम् ॥ ६ ॥
चूडालोवाच ।
ततो निबध्नता तेन मनोमत्तमतङ्गजम् ।
विवेकविपुलालाने शुद्धया धीवरत्रया ॥ ७ ॥
तद्वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् ।
रसानां पारदादीनां दिव्यानामनुरञ्जनम् ॥ ८ ॥
मुनिना पार्श्वगे कुम्भे स्फाटिके विलसद्रुचौ ।
अद्भुते विद्रुताकारं चन्द्रे चन्द्र इवार्पितम् ॥ ९ ॥
तत्र शैले बृहत्कान्ते स्थूलः पार्श्वेषु चाभितः ।
गम्भीरकुक्षिः सुदृढश्चोपलाहननक्षमः ॥ १० ॥
संकल्पितेन क्षीरेण स कुम्भस्तेन पूरितः ।
अमृतापूरभिन्नेन विधिनेवामृतार्णवः ॥ ११ ॥
तत्र मासाद्गतो वृद्धिं मुनिमन्दाहुतिक्रमः ।
अमृताब्धौ शुभो गर्भ इन्दोरिन्दुरिवानुजः ॥ १२ ॥
हिन्दी अर्थ
प्रतिबिम्ब के सदृश बढ़ने लगा