Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 93, Verses 31–42
यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 93, verses 31–42 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 93 · श्लोक 31
संस्कृत श्लोक
शिखिध्वज उवाच ।
सर्वं सर्वगतं सर्वहेयं त्याज्यं च सर्वदा ।
सर्वं किमुच्यते ब्रूहि सर्वतत्त्वविदां वर ॥ ३१ ॥
कुम्भ उवाच ।
साधो सर्वगताकारं जीवप्राणादिनामकम् ।
न जडं नाजडं भ्रान्तं चित्तं सर्वमिति स्मृतम् ॥ ३२ ॥
चित्तमेव भ्रमं विद्धि विद्धि चेतो नरं नृप ।
चित्तं विद्धि जगज्जालं चित्तं सर्वमिति स्मृतम् ॥ ३३ ॥
राज्यादेरथ देहादेराश्रमादेर्महीपते ।
सर्वस्यैव मनो बीजं तरुबीजं तरोरिव ॥ ३४ ॥
सर्वस्य बीजे संत्यक्ते सर्वं त्यक्तं भवत्यलम् ।
संभवासंभवाद्भूप सर्वत्यागो भवेदिति ॥ ३५ ॥
सर्वधर्माद्यधर्मा वा राज्यादि विपिनादि वा ।
सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम् ॥ ३६ ॥
इदं विवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन बीजं वृक्षतया यथा ॥ ३७ ॥
पादपः पवनेनेव भूकम्पेनेव पर्वतः ।
भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते ॥ ३८ ॥
सर्वभूतोपभोगानां जरामरणजन्मनाम् ।
महामुनीनां सुदृढं चित्तं विद्धि समुद्गकम् ॥ ३९ ॥
इदं प्रवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन चित्तं जीवो मनोमयम् ॥ ४० ॥
बुद्धिर्महदहंकारः प्राणश्चेत्यादिभिर्मुने ।
क्रियानुरूपैरभिधाव्यापारैः शान्तमुच्यते ॥ ४१ ॥
चित्तं सर्वमिति प्राहुस्तस्मिंस्त्यक्ते महीपते ।
सर्वाधिव्याधिसीमान्तः सर्वत्यागः कृतो भवेत् ॥ ४२ ॥
हिन्दी अर्थ
राजा
शिखिध्वज ने कहा : हे सर्वं तत्त्वविदों मे श्रेष्ठ ऋषे, सब जगह छोड़ने योग्य ओर सर्वदा त्यागने योग्य जो
सर्वगत सर्वात्मक वस्तु है, वह सर्वात्मक वस्तु कौन कही जाती है, उसे कहिए