Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 98, Verses 15–23

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (पूर्वार्ध), सर्ग 98, verses 15–23 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 98 · श्लोक 15-23

संस्कृत श्लोक

यत्किंचित्परमाकाश ईषत्कचकचायते । चिदादर्शे न जातत्वान्न चित्तं नो जगत्क्रिया ॥ १५ ॥ अहं त्वं जगदित्येषा प्रतिपत्तिर्न वास्तवी । मिथ्या स्वप्न इवाभाति नूनं मेऽशेषकारिणी ॥ १६ ॥ वास्यस्य जगतोऽभावाद्यतो नास्त्येव वासना । अतस्तदात्मकं चित्तं कीदृशं क्व कुतः कथम् ॥ १७ ॥ अप्रबुद्धैरवगतं चित्तं दृश्यमिदं जगत् । असच्चित्तं निराकारं पूर्वमुत्पन्नमेव नो ॥ १८ ॥ नोत्पन्नं कारणाभावात्सर्गादावेव सर्वदा । लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः ॥ १९ ॥ अनादित्वमजत्वं वा स्थैर्यं वाप्युपपद्यते । साकारस्यास्य जगतः स्थूलस्य प्रतिघाकृतेः ॥ २० ॥ समस्तकारणाभावाल्लोकशास्त्रानुभूतिभिः । युज्यन्ते च निराकर्तुं न महाप्रलयादयः ॥ २१ ॥ शास्त्रानुभववेदार्थसिद्धान्तैस्ते त्रयोऽपि वा । प्रलयाश्च न सन्तीति वक्त्युन्मत्तक एव च ॥ २२ ॥ लोकः शास्त्राणि वेदाश्च प्रमाणं यस्य नो मतेः । असद्भ्यो ह्यतिमूढः स सज्जनस्तं न संश्रयेत् ॥ २३ ॥

हिन्दी अर्थ

हैं ही नहीं, यह कहनेवाला उन्मत्त ही हो सकता हे । जिसकी बुद्धि में लोक, शास्त्र और वेद प्रमाण नहीं है, वह केवल लोक का आश्रय करनेवाले असत्‌ चार्वाक आदि से भी अत्यन्त मूर्ख है, अतः सज्जन को उसका कभी अवलम्बन नहीं करना चाहिए