Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 106, Verses 45–63

यह पृष्ठ योगवासिष्ठ के निर्वाण प्रकरण (उत्तरार्ध), सर्ग 106, verses 45–63 का मूल संस्कृत श्लोक और उसका हिंदी अर्थ प्रस्तुत करता है।

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 106 · श्लोक 45

संस्कृत श्लोक

भावाद्भावान्तरप्राप्तौ मध्ये यत्संविदो वपुः । तच्चिद्व्योम तदेवेदं सर्वं च स्थिति नेतरत् ॥ ४५ ॥ कार्यकारणभावादिदृशोऽविद्याविजृम्भिकाः । जगद्वत्कल्पयत्येष कोऽस्य पर्यनुयोगकृत् ॥ ४६ ॥ द्रष्टा भोक्ताथ कर्ता वा कश्चित्स्यादितरो यदि । तत्कथं किमिदं दृश्यमिति युज्येत नान्यथा ॥ ४७ ॥ यत्र स्वप्ने निराभासं चिद्व्योमैव विराजते । शुद्धमेकमनेकात्म तत्र किं क्व विकल्प्यते ॥ ४८ ॥ आस्वयंभुव एवेयं चिन्मात्रे भाति सर्गभाः । परिज्ञाता सती सा तु ब्रह्मैव भवति क्षणात् ॥ ४९ ॥ एषैव त्वपरिज्ञाता भ्रान्तिर्मायेति कथ्यते । जगदित्युच्यते विद्या दृश्यमित्युपवर्ण्यते ॥ ५० ॥ चिदाकाशप्रकाशेन चित्ता दृश्यपिशाचकः । वेतालो बालकेनेव बुद्धोऽसन्नेव सन्निव ॥ ५१ ॥ जगत्तात्मन्यसत्यापि चिद्व्योम्नैवानुभूयते । सत्येव साङ्गलेखेव स्वप्नेऽद्रिपुरता यथा ॥ ५२ ॥ अहमद्रिरहं रुद्रः समुद्रोऽहमहं विराट् । चेत्यते खे चितैवेति स्वप्नेऽद्रिपुरता यथा ॥ ५३ ॥ आकारि कारणाभावाज्जातं कार्यं न किंचन । महाप्रलयचिद्व्योम्नि चित्स्थितेत्थमिदन्तया ॥ ५४ ॥ अकारणकमेवेदं व्योम व्योम्नानुभूयते । जगदित्येव शून्याङ्गं चिन्मात्रात्म चिदात्मनि ॥ ५५ ॥ सर्व एव जडा जीर्णा दर्पणा इव जन्तवः । समीपगत एवान्तः कुर्वतस्तु विचारणम् ॥ ५६ ॥ तत्तत्स्वरूपमुत्सृज्य बुद्ध्वा चिन्मात्रखं जगत् । अश्मना चेतनेनैव स्थेयं नास्थेतरोत्तमा ॥ ५७ ॥ यथास्ते चलयद्देहं वार्यावर्तजगद्द्रवः । चेततीति तथा चित्त्वं स्थिता चित्तज्जगद्दृशा ॥ ५८ ॥ यथा कल्पद्रुमोऽभीष्टं कुर्याच्चिन्तामणिर्यथा । तथा यद्भावितं स्वान्तस्तत्पूरयति चित्क्षणात् ॥ ५९ ॥ चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् । आशु संपादयत्यन्तरात्मनात्मनि खात्मिका ॥ ६० ॥ देशाद्देशान्तरप्राप्तौ मध्यदेशे चितेर्वपुः । यत्तन्मयमिदं दृश्यं कुतो द्वैतैक्यविभ्रमः ॥ ६१ ॥ चिच्छायैवं कचत्यच्छमनन्ता भास्वरोदरा । अङ्गरिक्तापि दृश्यान्तःशून्यता नीलतेव खे ॥ ६२ ॥ विसदृशकार्यानुभवो न भवति सहकारिकारणाभावात् । सर्गादावत आद्या चिदेव दृश्यं यथा स्वप्ने ॥ ६३ ॥

हिन्दी अर्थ

हे सुन्दर, जैसे स्वप्न में प्रसिद्ध नगर, पर्वत, गृह आदि संविन्मय (चिन्मय) आकाश ही हैं वैसे ही जाग्रत में प्रसिद्ध नगर, पर्वत आदि भी संविन्मय गगन ही है । इस प्रकार स्वप्न ओर जाग्रत विकल्पशून्य असीम अखण्ड चिन्मात्ररूप ही सिद्ध हुए । इस प्रकार के तत्त्व के विषय में वादियों का विवाद वृथा है